Sunday, December 22, 2013

विभीषणकृत हनुमत्स्तोत्र

hanuman strotra
नमो हनुमते तुभ्यं नमो मारुतसूनवे 
नमः श्रीराम भक्ताय शयामास्याय च ते नमः !! 
नमो वानर वीराय सुग्रीवसख्यकारिणे 
लङ्काविदाहनार्थाय हेलासागरतारिणे !!
सीताशोक विनाशाय राममुद्राधराय च 
रावणान्त कुलचछेदकारिणे ते नमो नमः !!
मेघनादमखध्वंसकारिणे ते नमो नमः 
अशोकवनविध्वंस कारिणे भयहारिणे !!
वायुपुत्राय वीराय आकाशोदरगामिने
वनपालशिरश् छेद लङ्काप्रसादभजिने !!
ज्वलत्कनकवर्णाय दीर्घलाङ्गूलधारिणे 
सौमित्रिजयदात्रे च रामदूताय ते नमः !!
अक्षस्य वधकर्त्रे च ब्रह्म पाश निवारिणे 
लक्ष्मणाङग्महाशक्ति घात क्षतविनाशिने !!
रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय च ते नमः 
ऋक्षवानरवीरौघप्राणदाय नमो नमः !!
परसैन्यबलघ्नाय शस्त्रास्त्रघ्नाय ते नमः 
विषघ्नाय द्विषघ्नाय ज्वरघ्नाय च ते नमः !!
महाभयरिपुघ्नाय भक्तत्राणैककारिणे
परप्रेरितमन्त्रणाम् यन्त्रणाम् स्तम्भकारिणे !!
पयःपाषाणतरणकारणाय नमो नमः 
बालार्कमण्डलग्रासकारिणे भवतारिणे !!
नखायुधाय भीमाय दन्तायुधधराय च 
रिपुमायाविनाशाय रामाज्ञालोकरक्षिणे !!
प्रतिग्राम स्तिथतायाथ रक्षोभूतवधार्थीने
करालशैलशस्त्राय दुर्मशस्त्राय ते नमः !!
बालैकब्रह्मचर्याय रुद्रमूर्ति धराय च 
विहंगमाय सर्वाय वज्रदेहाय ते नमः !!
कौपीनवासये तुभ्यं रामभक्तिरताय च 
दक्षिणाशभास्कराय शतचन्द्रोदयात्मने !! 
कृत्याक्षतव्यधाघ्नाय सर्वकळेशहराय च 
स्वाभ्याज्ञापार्थसंग्राम संख्ये संजयधारिणे !! 
भक्तान्तदिव्यवादेषु संग्रामे जयदायिने 
किलकिलाबुबुकोच्चारघोर शब्दकराय च !!
सर्पागि्नव्याधिसंस्तम्भकारिणे वनचारिणे
सदा वनफलाहार संतृप्ताय विशेषतः !!
महार्णव शिलाबद्धसेतुबन्धाय ते नमः 
वादे विवादे संग्रामे भये घोरे महावने !!
सिंहव्याघ्रादिचौरेभ्यः स्तोत्र पाठाद भयं न हि
दिव्ये भूतभये व्याघौ विषे स्थावरजङ्गमे !!
राजशस्त्रभये चोग्रे तथा ग्रहभयेषु च 
जले सर्पे महावृष्टौ दुर्भिक्षे प्राणसम्प्लवे !!
पठेत् स्तोत्रं प्रमुच्येत भयेभ्यः सर्वतो नरः 
तस्य क्वापि भयं नास्ति हनुमत्स्तवपाठतः !!
सर्वदा वै त्रिकालं च पठनीयमिदं स्तवं
सर्वान् कामानवाप्नोति नात्र कार्या विचारणा !!
विभीषण कृतं स्तोत्रं ताक्ष्येर्ण समुदीरितम्
ये पठिष्यन्ति भक्तया वै सिद्धयस्तत्करे सि्थताः !!

0 comments:

Post a Comment